wayground logo

Free Printable Worksheets

NEW

Font size

S
M
L
XL
Worksheets

व्याकरणरसप्रश्नः

Total questions: 10

Worksheet time: 5mins

Name
Class
Date
1.

"चन्द्रः इव मुखम्" इति विवक्षायाम् अधः प्रदत्तेषु शुद्धं वाक्यं किम् ?

a)

चन्द्रस्य सदृशं मुखम् ।

b)

चन्द्रं सदृशं मुखम् ।

c)

चन्द्राय सदृशं मुखम् ।

d)

चन्द्रे सदृशं मुखम् ।

2.

"श्लोकं पठन् शिरश्चालयति" इति वाक्ये "शिरः" इत्यत्र केन सूत्रेण कर्म विधीयते ?

a)

कर्मणि द्वितीया

b)

कर्तुरीप्सिततमं कर्म

c)

तथायुक्तञ्चानीप्सितम्

d)

अकथितञ्च

3.

"अवहननाय उलूकलम्" केन वार्तिकेन चतुर्थी भवति ?

a)

क्लृपि सम्पद्यमाने च ।

b)

तादर्थ्ये चतुर्थी ।

c)

हितयोगे च ।

d)

प्रदत्तं त्रयमपि अशुद्धम् ।

4.

मात्रार्थे "शाकस्य लेशः" इति विग्रहस्य समस्तं पदम् ।

a)

शाकलेशः

b)

शाकप्रति

c)

लेशशाकः

d)

प्रतिशाकम्

5.

त्रयाणां लोकानां समाहारः ।

a)

त्रिलोकः

b)

त्रिलोकम्

c)

त्रीलोकी

d)

त्रिलोकि

6.

"पुण्या रात्रिः" इत्यस्य समस्तं पदम् ।

a)

पुण्यरात्रः

b)

पुण्यरात्रि

c)

पुण्यरात्रम्

d)

पुण्यारात्रिः

7.

"महासेनः" इत्यत्र विग्रहवाक्यम् ।

a)

महान् च असौ सेना च

b)

महती सेना यस्य सः

c)

महतः सेना

d)

महतां सेना

8.

"षाण्मातुरः" इत्यत्र कः समासः वर्तते ?

a)

द्विगुसमासः

b)

अव्ययीभावसमासः

c)

कर्मधारयसमासः

d)

बहुव्रीहिसमासः

9.

"विमान" इति शब्दः कस्मिन् लिङ्गे अस्ति ।

a)

पुंलिङ्गे एव

b)

पुंलिङ्गे स्त्रीलिङ्गे च

c)

नपुंसकलिङ्गे एव

d)

नपुंसकलिङ्गे पुंलिङ्गे च

10.

"सः सूर्याय अर्घ्यं ददाति ।" अत्र कीदृशं सम्प्रदानम् ?

a)

अनिराकर्तृसम्प्रदानम्

b)

प्रेरयितृसम्प्रदानम्

c)

अनुमन्तृसम्प्रदानम्

d)

प्रदत्तं त्रयमपि असाधु