Wayground logo

Free Printable Worksheets

Font size

S
M
L
XL
Worksheets

सूक्तिमौक्तिकम् |

Total questions: 14

Worksheet time: 7mins

Name
Class
Date
1.

श्लोकं पठित्वा उत्तरं ददातु -


श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।

आत्मनः प्रतिकूलानि परेषां न समाचरेत् ||


किं श्रूयताम् ?

a)

1. धर्मसर्वस्वम् |

b)

2 अवधार्यताम् |

c)

3 आत्मनः |

2.

श्लोकं पठित्वा उत्तरं ददातु -


प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।

तस्मात् तदेव वक्तव्यं वचने का दरिद्रता ||


कुत्र दरिद्रता न भवेत् ?

a)

1. जन्तवः |

b)

2 . वचने |

c)

3. प्रियं |

3.

श्लोकं पठित्वा उत्तरं ददातु -


पिबन्ति नद्यः स्वयमेव नाम्भः। स्वयं न खादन्ति फलानि वृक्षाः।

नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः।।


सतां विभूतयः किमर्थं भवन्ति ?

a)

1. परोपकाराय |

b)

2. फलानि |

c)

3. सस्यम् |

4.

श्लोकं पठित्वा उत्तरं ददातु -


यत्रापि कुत्रापि गता भवेयुः

हंसा महीमण्डलमण्डनाय।

हानिस्तु तेषां हि सरोवराणां

येषां मरालैः सह विप्रयोगः।।


हंसाः इत्यस्य कर्तृपदस्य क्रियापदं किम् ?

a)

1. गताः |

b)

2. हानिः |

c)

3. विप्रयोगः |

5.

श्लोकं पठित्वा उत्तरं ददातु -


गुणा गुणज्ञेषु गुणा भवन्ति

ते निर्गुणं प्राप्य भवन्ति दोषाः।

आस्वाद्यतोयाः प्रवहन्ति नद्यः

समुद्रमासाद्य भवन्त्यपेयाः।


आसाद्य इत्यस्य पदस्य पर्यायपदं किम् ?

a)

1. आस्वाद्यतोयाः |

b)

2. प्रवहन्ति |

c)

3. प्राप्य |

6.

श्लोकं पठित्वा उत्तरं ददातु -


वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।

अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥


‘संरक्षेत् ’ इत्यस्य क्रियापदस्य कर्मपदं किम् ?

a)

1. वृत्तम् |

b)

2. वित्तम् |

c)

3. याति |

7.

श्लोकं पठित्वा उत्तरं ददातु -


श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।

आत्मनः प्रतिकूलानि परेषां न समाचरेत्।


अनुकूलानि इत्यस्य पदस्य विपर्ययपदं किम् ?

a)

1. धर्मसर्वस्वम्।

b)

2. प्रतिकूलानि

c)

3. समाचरेत्

8.

श्लोकं पठित्वा उत्तरं ददातु -


प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।

तस्मात् तदेव वक्तव्यं वचने का दरिद्रता ।।


प्राणिनः इत्यस्य पदस्य पर्यायपदं किम्?

a)

1. जन्तवः |

b)

2. प्रियवाक्याय |

c)

3. तुष्यन्ति |

9.

श्लोकं पठित्वा उत्तरं ददातु -


पिबन्ति नद्यः स्वयमेव नाम्भः। स्वयं न खादन्ति फलानि वृक्षाः।

नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः।।


अत्र नद्यः इत्यस्य कर्तृपदस्य क्रियापदं किम् ?

a)

1. सस्यम् |

b)

2. अम्भः |

c)

3. पिबन्ति |

10.

श्लोकं पठित्वा उत्तरं ददातु -


गुणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैःसदा।

गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः।


सर्वदा कैः प्रयत्नः कर्तव्य: ?

a)

1. पुरुषैः |

b)

2. गुणेषु

c)

3. सदा |

11.

श्लोकं पठित्वा उत्तरं ददातु -


आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी वृद्धिमती च पश्चात्।

दिनस्य पूर्वार्द्धपरार्द्धभिन्ना मैत्री खलसज्जनानाम्॥


खलसज्जनानाम् मैत्री कीदृशी भवति ?

a)

1. सज्जनानाम् |

b)

2. छायेव |

c)

3. आरम्भगुर्वी |

12.

श्लोकं पठित्वा उत्तरं ददातु -


यत्रापि कुत्रापि गता भवेयुः

हंसा महीमण्डलमण्डनाय।

हानिस्तु तेषां हि सरोवराणां

येषां मरालैः सह विप्रयोगः।।


हानिः केषाम् भवति ?

a)

1. सरोवराणाम् |

b)

2. महीमण्डलमण्डनाय |

c)

3. मरालैः |

13.

श्लोकं पठित्वा उत्तरं ददातु -


गुणा गुणज्ञेषु गुणा भवन्ति

ते निर्गुणं प्राप्य भवन्ति दोषाः।

आस्वाद्यतोयाः प्रवहन्ति नद्यः

समुद्रमासाद्य भवन्त्यपेयाः।


गुणाः निर्गुणं प्राप्य किं भवन्ति ?

a)

1. गुणज्ञेषु |

b)

2. आस्वाद्यतोयाः |

c)

3. दोषाः |

14.

श्लोकं पठित्वा उत्तरं ददातु -


यत्रापि कुत्रापि गता भवेयुः

हंसा महीमण्डलमण्डनाय।

हानिस्तु तेषां हि सरोवराणां

येषां मरालैः सह विप्रयोगः।।


लाभः इत्यस्य पदस्य विलोमपदं किम् ?

a)

1. विप्रयोगः |

b)

2. हानिः |

c)

3. हंसः |