wayground logo

Free Printable Worksheets

NEW

Font size

S
M
L
XL
Worksheets

Laghukaumudi - Part 1 Recap

Total questions: 10

Worksheet time: 5mins

Name
Class
Date
1.

पदं नाम किम् ?

a)

सुबन्ताः

b)

तिङन्ताः

c)

सुबन्ताः तिङन्ताः च

d)

सुबन्ताः तिङन्ताः कृत्तद्धितान्ताः च

2.

इत्संज्ञा कस्य भवितुमर्हति ?

a)

उपदेशे आदौ विद्यमानस्य अचः

b)

उपदेशे अन्ते विद्यमानस्य अलः

c)

उपदेशे अनुनासिकस्य हलः

d)

उपदेशे अनुनासिकस्य अचः

3.

यय् प्रत्याहारे के वर्णाः न अन्तर्भवन्ति ?

a)

अन्तस्थाः

b)

ऊष्माणः

c)

अनुनासिकाः

d)

कर्कशव्यञ्जनानि

4.

"अत्" इत्युक्ते किम् ?

a)

अकारस्य सर्वे प्रभेदाः

b)

ह्रस्वः अकारः

c)

इत्संज्ञकः अकारः

d)

तकारभिन्नः वर्णः

5.

एतेषु कुत्र पदान्ते संयोगः अस्ति?

a)

नियम्य

b)

कृत्स्नम्

c)

ऊर्क्

d)

प्राप्तिः

6.

विसर्गलोपः केन सूत्रेण विधीयते ?

a)

एतत्तदोः सुलोपोऽकोरनञ्समासे हलि

b)

लोपः शाकल्यस्य

c)

रो रि

d)

न केनापि सूत्रेण

7.

स्वात्मा - इत्यत्र द्वेधा सन्धिच्छेदः भवितुमर्हति । कथम् ?

a)

इको यणचि, अकः सवर्णे दीर्घः

b)

एचोऽयवायावः, अकः सवर्णे दीर्घः

c)

इको यणचि, एङः पदान्तादति

d)

इको यणचि, शि तुक्

8.

श्रद्धावाल्ँलभते ज्ञानम् - अत्र सन्धिविधायकं सूत्रं किम्?

a)

अनुस्वारस्य ययि परसवर्णः

b)

तोर्लि

c)

वा पदान्तस्य

d)

नश्च

9.

येन धौता गिरᳶपुंसां विमलैः शब्दवारिभिः - अत्र किं सूत्रं न प्रयुक्तमस्ति?

a)

हलि सर्वेषाम्

b)

कुप्वोः कᳶपौ च

c)

वा शरि

d)

विसर्जनीयस्य सः

e)

खरवसानयोर्विसर्जनीयः

10.

एत्येधत्यूठ्सु इति सूत्रं केषाम् अपवादः ?

a)

आद्गुणः, वृद्धिरेचि

b)

वृद्धिरेचि, एङि पररूपम्

c)

आद्गुणः, एङि पररूपम्

d)

एङि पररूपम्