WorksheetsLSK Bhvaadi W1 Quiz
Total questions: 25
Worksheet time: 35mins
भवन्ति - अत्र प्रत्ययादेशः (a) सूत्रेण
लिटि अजादौ प्रत्यये भूधातोः (a) आगमः भवति
लुटि प्रथमपुरुषद्विवचनस्य (a) आदेशः
(a) आर्धधातुकस्य इडागमो भवति
अनद्यतने भविष्यति धातोः (a) लकारः
एतेषु कः लकारस्य अर्थः भवितुं नार्हति ?
कर्ता
कर्म
भावः
करणम्
भवति (भू + अ + ति) - अत्र परस्मैपदं किम् ?
भू
ति
भू + अ
भू + अ + ति
"अहं त्वया दृश्ये" - अस्मिन् वाक्ये मध्यमपुरुषः कुतो नास्ति ?
विप्रतिषेधात् "अस्मद्युत्तमः" इत्यस्य प्रवृत्तिः
युष्मच्छब्दः उपपदं नास्ति
लकारार्थस्य युष्मच्छब्देन सामानाधिकरण्यं नास्ति
वाक्ये अस्मच्छब्दः अस्ति चेत् परत्वात् उत्तमपुरुष एव भवति
लादेशाः कति ?
९
१८
२०
२२
पित्रा पाठ्यमानाः पुत्राः अभिवर्धन्ते, ते यशस्विनो भूयासुः - अस्मिन् वाक्ये कति सार्वधातुकप्रत्ययाः सन्ति ? कति आत्मनेपदप्रत्ययाः सन्ति ?
द्वौ सार्वधातुकप्रत्ययौ, द्वौ आत्मनेपदप्रत्ययौ
त्रयः सार्वधातुकप्रत्ययाः, त्रयः आत्मनेपदप्रत्ययाः
त्रयः सार्वधातुकप्रत्ययाः, द्वौ आत्मनेपदप्रत्ययौ
चत्वारः सार्वधातुकप्रत्ययाः, द्वौ आत्मनेपदप्रत्ययौ
ञिमिदाँ॒ स्नेहने - अयं धातुः कीदृशः ?
ञित्त्वात् उभयपदी, अनुदात्तवत्त्वात् अनिट्
ञित्त्वात् आत्मनेपदी, उदात्तवत्त्वात् सेट्
उदात्तेत्त्वात् आत्मनेपदी, अनुदात्तवत्त्वात् अनिट्
अनुदात्तेत्त्वात् आत्मनेपदी, उदात्तवत्त्वात् सेट्
"सार्वधातुकार्धधातुकयोः" इत्यनेन अङ्गस्य गुणसिद्ध्यर्थम् एतेषु किं किम् अवश्यम् अपेक्ष्यते ?
क्ङिद्भिन्नः प्रत्ययः
सार्वधातुक / आर्धधातुकप्रत्ययः
इगन्तः धातुः
पित् प्रत्ययः
True or False? इत्संज्ञकवर्णरहिताद् धातोः कर्तृगामिनि क्रियाफले आत्मनेपदं भवति
TRUE
FALSE
DEPENDS
एतेषु कानि वाक्यानि शुद्धानि?
भूधातुः परस्मैपदम्
भूधातुः परस्मैपदी
भूधातोः परस्मैपदिनः प्रत्ययाः भवन्ति
भूधातोः परस्मैपदप्रत्ययाः भवन्ति
एतेषु कानि वाक्यानि साधूनि ?
अहमद्य प्रातः पाकमकरवम्
त्वं अग्रिमसप्ताहे देशान्तरं गमिष्यसि
श्वः किं चलच्चित्रं द्रष्टासि ?
सः ह्यः पाठकाले निद्रां चकार
प्रक्रियां लिखत - भवन्ति
प्रक्रियां लिखत - बभूविथ
प्रक्रियां लिखत - भविता
प्रक्रियां लिखत - भविष्यामि
प्रक्रियां लिखत - भू + झि (लुट्)
सूत्रार्थं लिखत - कर्तरि शप्
सूत्रार्थं लिखत - भवतेरः
सूत्रार्थं लिखत - तासस्त्योर्लोपः
सूत्रार्थं लिखत - स्यतासी लृलुटोः
सूत्रार्थं लिखत - अस्मद्युत्तमः
