NEW
Font size
Worksheetsलघुसिद्धान्तकौमुदी (प्रथमः रसप्रश्नः)
Total questions: 20
Worksheet time: 10mins
पाणिनीयव्याकरणम् इत्युक्ते........................
काव्यम्
अष्टाध्यायी
शिक्षा
कथा
व्याकरणं नाम.....
उच्यन्ते शब्दार्थाः अत्र
व्याक्रियन्ते व्युत्पाद्यन्ते शब्दाः अनेन
विविच्यन्ते शब्दाः अनेन
त्रयमपि न
त्रिषु मुनिषु एषः नान्तर्भवति ।
वररुचिः
पतञ्जलिः
पाणिनिः
शाकल्यः
"अदेङ् गुणः" इदं ...............
गुणसन्धिविधायकं सूत्रम्
गुणसंज्ञाविधायकं सूत्रम्
गौणसूत्रम्
तपरसूत्रम्
लोपः इत्युक्ते...................
प्रसक्तः
अप्रसक्तः
अविद्यमानत्वम्
अदर्शनम्
वा इत्यस्य अर्थः........................
प्रश्नः
विकल्पः
मुनिः
शाकल्यः
उच्चैरुदात्तः इदं कीदृशं सूत्रम् ?
संज्ञासूत्रम्
परिभाषासूत्रम्
विधिसूत्रम्
नियमसूत्रम्
सवर्णग्राहकसूत्रं किम् ?
तुल्यास्यप्रयत्नं सवर्णम्
अकः सवर्णे दीर्घः
इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च
अणुदित्सवर्णस्य चाप्रत्ययः
उपदेशो नाम कः
पाणिनिप्रोक्तम्
वरदराजेन उक्तम्
आद्योच्चारणम्
मुनिवचनम्
अ इ उ वर्णानां प्रत्येकं .................भेदाः
द्वादश
षट्
कोऽपि न
अष्टादश
लृकारस्य ............भेदः नास्ति ।
ह्रस्वः
दीर्घः
प्लुतः
कोऽपि
एचां अयं भेदः नास्ति ।
ह्रस्वः
दीर्घः
प्लुतः
अनुनासिकः
उपूपध्मानीयानाम् ..............................
नासिका च
दन्ताः
ओष्ठौ
कण्ठः
ओदौतोः उच्चारणस्थानम्......................
कण्ठदन्ताः
कण्ठतालु
कण्ठोष्ठम्
कण्ठनासिका
यत्नो द्विधा । आभ्यन्तरो बाह्यश्च । आद्यः पञ्चधा । अत्र आद्यः इत्युक्ते................
बाह्यः
आभ्यन्तरः
अन्तरतमः
प्रयत्नः
खर् वर्णानां बाह्ययत्नः................
विवारः श्वासः अघोषः
संवारः नादः घोषः
कण्ठः
तालुः
अनुनासिकाननुनासिकभेदेन यवला...................
त्रिधा
पञ्चधा
चतुर्धा
द्विधा
पदं नाम
सुबन्तम्
तिङन्तम्
सुप्तिङन्तम्
किमपि न
परः सन्निकर्षः
पदम्
संहिता
संयोगः
संवादः
मुक्तस्वाध्यायपीठस्य शैक्षिकविकासकेन्द्रं कुत्र अस्ति ?
शृङ्गगिरौ
देहल्याम्
बेङ्गलूरुनगरे
चेन्नैनगरे
