wayground logo

Free Printable Worksheets

NEW

Font size

S
M
L
XL
Worksheets

भर्तृहरिनीतिशतकम् (द्वितीया अभ्यासपरीक्षा)

Total questions: 30

Worksheet time: 23mins

Name
Class
Date
1.
नास्त्यौषधम् इत्यत्र कः सन्धिः?
a)
वृद्धिसन्धिः
b)
गुणसन्धिः
c)
यण्-सन्धिः
d)
औत्वसन्धिः
2.
पुच्छविषाणहीनः साक्षात्पशुः कः?
a)
शशकूर्मादिः
b)
शास्त्रादिज्ञानसंपन्नः
c)
साहित्य-सङ्गीत-कला-संपन्नः
d)
साहित्य-सङ्गीत-कला-विहीनः
3.
येषां न विद्या .. .... .. .... .... .. शीलं न गुणो न धर्मः ।
a)
न तपो न दानं ज्ञानं न
b)
न क्रीडा न व्रीडा पानं न
c)
न दुर्व्यसनं न कालहरणं
d)
न व्यसनं न चेष्टा ज्ञानं न
4.
पर्वतदुर्गेषु कैः सह भ्रान्तं वरम्? इति भतृहरिः वदति।
a)
मृगैः सह
b)
वनचरैः सह
c)
वानरैः सह
d)
मूर्खैः सह
5.
सुरेन्द्रभवनेष्वपि इत्यत्र कः सन्धिः?
a)
वृद्धिसन्धिः
b)
ष्टुत्वसन्धिः
c)
यण्-सन्धिः
d)
वान्तादेशसन्धिः
6.
शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमाः विख्याताः इति केषां विशेषणानि?
a)
राज्ञाम्
b)
मन्त्रिणाम्
c)
कवीनाम्
d)
सेवकानाम्
7.
कुत्स्याः स्युः कुपरीक्षका हि .......... यैरर्घतः पातिताः।
a)
मणयः
b)
प्रश्नाः
c)
शिलाः
d)
ग्रन्थाः
8.
एतेषु समीचीनं कथनं किम् अस्ति?
a)
विद्याधनं हर्तुः गोचरं याति।
b)
विद्याधनं सर्वदा शं न पुष्णाति ।
c)
विद्याधनम् अर्थिभ्यः प्रतिपाद्यमानं सत् न वृद्धिं प्राप्नोति ।
d)
विद्याधनं कल्पान्तेष्वपि निधनं न प्रयाति।
9.
पुष्णाति-वर्धयति; उज्झत- .........।
a)
उत्तिष्ठत
b)
उदित
c)
परित्यजत
d)
परिगृह्णीत
10.
हर्तुर्याति न गोचरं किमपि शम् ... इति श्लोके किं वृत्तं वर्तते?
a)
स्रग्धरा
b)
शिखरिणी
c)
सिंहविक्रीडितम्
d)
शार्दूलविक्रीडितम्
11.
कान् मावमंस्थाः ? इति भर्तृहरिः राजानं वदति।
a)
अधिगतपरमार्थान् पण्डितान्
b)
अज्ञातोत्तरान् शिष्यान्
c)
अविदितोपायान् अमात्यान्
d)
अकृताभ्यासान् योद्धॄन्
12.
केयूराणि न भूषयन्ति पुरुषं हारा न ............।
a)
सूर्योज्ज्वलाः
b)
चन्द्रोज्ज्वलाः
c)
अनलोज्ज्वलाः
d)
एतेषु किमपि न
13.
का समलङ्करोति पुरुषम्?
a)
या पुष्पमाला धार्यते सा
b)
या उत्तमा भार्या प्रसाधनं करोति सा
c)
या संस्कृता वाणी धार्यते सा
d)
या शुद्धासौवर्णकण्ठमाला धार्यते सा
14.
भर्तृहरेः दृष्ट्या वास्तविकं चिरस्थायि भूषणं किम्?
a)
शरीरस्य स्वास्थ्यम्
b)
प्रमात्मनः आशीः
c)
वज्राभरणम्
d)
वाग्भूषणम्
15.
विद्या नाम नरस्य रूपमधिकं ................... धनं
a)
प्रच्छन्नगुप्तं
b)
प्रच्छन्नदैवं
c)
परहस्तगतं
d)
वित्तकोषस्थितं
16.
भोगकरी यशःसुखकरी का?
a)
माला
b)
विद्या
c)
चिन्ता
d)
शय्या
17.
एतेषु असमीचीनं कथनं किम् अस्ति?
a)
विद्या राजसु पूज्यते।
b)
विद्याविहीनः पशुः।
c)
विद्या प्रणष्टं गुप्तं धनम्।
d)
विद्या बन्धुजनो विदेशगमने।
18.
यदि सुहृद् अस्ति तर्हि कानि न अपेक्ष्यन्ते? इति भर्तृहरेः आशयः।
a)

धनानि

b)

कवचानि

c)

विद्यादीनि

d)
दिव्यौषधानि
19.
प्रीतिः - साधुजने; नयः - ....... ।
a)
बन्धुजने
b)
शत्रुजने
c)
नृपजने
d)
नारीजने
20.
सत्सङ्गतिः धियः ...... हरति ।
a)
तीक्ष्णत्वं
b)
जाड्यं
c)
वेगं
d)
वैशाल्यं
21.
दाक्षिण्यं शाठ्यं शौर्यं धैर्यम् इत्यादिषु पदेषु विद्यमानः-
a)
योग्यार्थे यत् इति कृत्-प्रत्ययः
b)
भावार्थे ण्यत् इति कृत्-प्रत्ययः
c)
भावार्थे ष्यञ्-तद्धित-प्रत्ययः
d)
अपत्यार्थे ष्यञ्-तद्धित-प्रत्ययः
22.
के जयन्ति? इति भर्तृहरिः वदति।
a)
अकृताभ्यासाः क्रीडापटवः
b)
शूराः सिंहाः
c)
मदभरिताः गजाः
d)
सुकृतिनो रससिद्धाः कवीश्वराः
23.
कवीश्वराणां यशःकाये किं नास्ति?
a)
जरामरणजं भयं
b)
कीर्तिहानिजं भयं
c)
दुष्टजनेभ्यः भयं
d)
वीरनृपतिजं भयं
24.
सूनुः इति पदस्य अर्थः कः?
a)
इन्द्रः
b)
सुतः
c)
सूतः
d)
सारथिः
25.
जाड्यं धियो हरति सिञ्चति वाचि सत्यम् इति श्लोके वृत्तं किम्?
a)
मालिनी
b)
उपेन्द्रवज्रा
c)
वसन्ततिलका
d)
कर्पूरतिलका
26.
अस्मिन् श्लोके अनुष्टुप् छन्दः नास्ति-
a)
दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।
b)
वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह ।
c)
जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः ।
d)
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ।
27.
मालिनीवृत्तस्य उदाहरणम् अस्ति-
a)
अधिगतपरमार्थान् पण्डितान् मावमंस्थाः
b)
प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्रान्तरात्
c)
लभेत सिकतासु तैलमपि यत्नतः पीडयन्
d)
शिरः शार्वं स्वर्गात्पशुपति-शिरस्तः क्षितिधरम्
28.
परधनहरणे संयमः सत्यवाक्यं काले शक्त्या प्रदानम् इत्यादिकं किम्? इति नीतिशतके उक्तम् अस्ति।
a)
सज्जनस्वभावः
b)
श्रेयसां पन्थाः
c)
विनाशस्य पन्थाः
d)
तपसः फलम्
29.
एतेषु कथनेषु असाधु किम्?
a)
प्रारभ्यते न खलु विघ्नभयेन नीचैः
b)
प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।
c)
प्रारब्धमुत्तमजना परित्यजन्ति
d)
प्रारब्धमुत्तमजना न परित्यजन्ति
30.
के न अभ्यर्थ्याः इति सज्जनानाम् आचारः?
a)
संन्यासिनः
b)
महाराजाः
c)
सन्तः
d)
असन्तः