NEW
Font size
S
M
L
XL
Worksheetsभर्तृहरिनीतिशतकम् तृतीया अभ्यासपरीक्षा
Total questions: 30
Worksheet time: 23mins
Name
Class
Date
1.
केनापि न उपदिष्टं चेदपि सन्तः किं कठिनव्रतम् जीवने परिपालयन्ति? इति भर्तृहरिः अभिप्रैति।
a)
असिधाराव्रतम्
b)
त्रिरात्रम्
c)
नवरात्रव्रतम्
d)
एकादशीव्रतम्
2.
विपदि ........ स्थेयम्।
a)
नीचैः
b)
उच्चैः
c)
शठैः
d)
अधः
3.
महात्मनां स्वाभिमानवर्णनपरके उदाहरणे क्षुत्-क्षामोऽपि जरा-कृशोऽपि शिथिल-प्राणोऽपि इत्यादिकं कस्य विशेषणम्?
a)
गजस्य
b)
सज्जनस्य
c)
केसरिणः
d)
महात्मनः
4.
मानमहताम् अग्रेसरः ………..।
a)
नागेन्द्रः
b)
देवेन्द्रः
c)
भर्तृहरिः
d)
केसरी
5.
समूहेतरं पदं चिनुत-
a)
अग्रजः
b)
अग्रेसरः
c)
अग्रतःसरः
d)
पुरोगामी
6.
श्वा किं लब्ध्वा परितोषमेति?
a)
र्मांसपूर्णमपि सिंहं
b)
निर्मांसमप्यस्थिकं
c)
नीरसमपि तृणं
d)
सजातीयं शुनकं
7.
सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा कं निहन्ति?
a)
शृगालं
b)
द्विजं
c)
द्विपं
d)
वृकं
8.
विपन्नदीधितिः इत्यस्य अयम् अर्थः न युक्तः-
a)
नष्टतेजाः
b)
क्षीणकान्तिः
c)
द्युतिहीनः
d)
नष्टमतिः
9.
समूहेतरं पदं चिनुत-
a)
असह्य
b)
प्रारभ्य
c)
निपत्य
d)
प्रसह्य
10.
प्राणाघातान्निवृत्तिः इत्यत्र कः सन्धिः?
a)
ङमुडागमसन्धिः
b)
अनुनासिकसन्धिः
c)
परसवर्णसन्धिः
d)
ष्टुत्वसन्धिः
11.
प्रारभ्यते न खलु .............. नीचैः।
a)
चोरभयेन
b)
नष्टभयेन
c)
विघ्नभयेन
d)
धनाभावेन
12.
शेषः किं वहति?
a)
फणामणिं
b)
विष्णुं विष्णुपत्नीं च
c)
क्षीराब्धितरङ्गश्रेणिं
d)
भुवनश्रेणिं
13.
समूहेतरं पदं चिनुत-
a)
मत्स्यः
b)
कच्छपः
c)
कमठः
d)
कूर्मः
14.
कमठपतिः इत्यस्य अयमर्थः-
a)
रावणस्य अवताररूपी सन्यासी
b)
विष्णोः अवताररूपी कूर्मः
c)
कुत्सितः मठाधिपतिः
d)
कुत्सितमठस्य पतिः
15.
इन्द्रस्य वज्रप्रहारात् भीतः कः समुद्रस्य जले पतितः?
a)
तुषारालयः
b)
मन्दरपर्वतः
c)
तुषारार्द्रेः सूनुः
d)
तुषारार्द्रेः पिता
16.
निःसीमानः - चरित्रविभूतयः; फणाफलकस्थितां - ...............।
a)
क्षीराब्धितरङ्गश्रेणिं
b)
अम्भोजततिं
c)
शोभमानमणिश्रेणिं
d)
भुवनश्रेणिं
17.
इन्द्रस्य वज्रप्रहारैः पितरि क्लेशविवशे मैनाकस्य समुद्रजले पतनापेक्षया किं वरम् आसीत्?
a)
पक्षच्छेदः
b)
पक्षपातः
c)
प्राणत्यागः
d)
प्रच्छन्नस्थितिः
18.
राहुः कौ ग्रसते?
a)
कुजकेतू
b)
सूर्यचन्द्रमसौ
c)
गुरुबुधौ
d)
गुरुशुक्रौ
19.
अन्येऽपि पञ्चषाः सम्भाविताः के सन्ति?
a)
सूर्यादयः
b)
चन्द्रादयः
c)
बृहस्पतिप्रभृतयः
d)
शुक्राचार्यादयः
20.
सर्वे गुणाः .......... आश्रयन्ति
a)
पाण्डित्यम्
b)
राजानम्
c)
वाक्शौर्यम्
d)
काञ्चनम्
21.
श्वा पिण्डदस्य निकटे किं किं कुरुते ?
a)
दष्ट्वा लाङ्गूलम् अधः पुटीकृत्य पलायनं च
b)
स्वलाङ्गूलखादनं भूमौ निपत्य पाददंशनं च
c)
लाङ्गूलचालनं भूमौ निपत्य वदनोदरदर्शनं च
d)
लाङ्गूलं वक्रीकृत्य धीरविलोकनं भषणं च
22.
समूहेतरं पदं चिनुत-
a)
प्रारभ्य
b)
त्यक्त्वा
c)
लब्ध्वा
d)
नीत्वा
23.
वित्तस्य कति गतयः वर्तन्ते?
a)
षट्
b)
पञ्च
c)
चतस्रः
d)
तिस्रः
24.
एतेषु अयं कृदन्तः न-
a)
स्पृष्टः
b)
विलोक्य
c)
शौर्यम्
d)
शक्यम्
25.
एतेषु अयं तद्धितान्तः न-
a)
शार्वम्
b)
जाड्यम्
c)
शक्यम्
d)
सर्वदा
26.
अर्थोष्मणा इति पदपरिचयः अयं समीचीनः-
a)
नकारान्त-नपुंसलिङ्ग-तृतीया-एकवचनम्
b)
नकारान्त-पुंलिङ्ग-तृतीया-एकवचनम्
c)
अकारान्त-पुंलिङ्ग-तृतीया-एकवचनम्
d)
नकारान्त-पुंलिङ्ग-द्वितीया-एकवचनम्
27.
एतेषु नकारान्त-पुंलिङ्ग-प्रथमा-एकवचनरूपं किम् अस्ति?
a)
आत्मनः
b)
क्षणेन
c)
तेजस्वी
d)
ऊष्मणा
28.
द्वावेव इत्यत्र कः सन्धिः?
a)
यण्-सन्धिः
b)
गुणसन्धिः
c)
सवर्णदीर्घसन्धिः
d)
अयादिसन्धिः
29.
समूहेतरं पदं चिनुत-
a)
अनुकम्पा
b)
अप्रतिहता
c)
अविकलानि
d)
अचेतनः
30.
एतेषु सकारान्त-नपुंसलिङ्ग-प्रथमा-एकवचनमरूपं किम्?
a)
श्रेयसां
b)
स्रोतः
c)
क्षान्तिः
d)
चेतसः
Reset
