wayground logo

Free Printable Worksheets

NEW

Font size

S
M
L
XL
Worksheets

Yadavabhyudaya Sarga 1 - Verse 2,3(Yadekaikaguṇaprānte,Śaktya)

Total questions: 13

Worksheet time: 7mins

Name
Class
Date
1.
भगवतः श्रीकृष्णस्य गुणानां वन्दिनः के भवन्ति ?
a)
देवाः
b)
निगमाः
c)
मनुष्याः
d)
गन्धर्वाः
2.
"मितम्पचाः" इति पदस्य अर्थः कः ?
a)
धनिकाः
b)
पाचकाः
c)
क्षुद्राः
d)
विनयशीलाः
3.
"यथावद्वर्णने" - सन्धिविच्छेदः कः ?
a)
यथावः + वर्णने
b)
यथावद्वः + नने
c)
यथा + वद्वर्णने
d)
यथावत् + वर्णने
4.
वन्दिनः' - प्रातिपदिकं किम् ?
a)
वन्दी
b)
वन्दिन्
c)
वन्दिन
d)
वन्दीन्
5.
"यदेकैकगुणप्रान्ते" - यत् शब्दः कं बोधयति ?
a)
वेदान्तदेशिकः
b)
भक्तः
c)
नारदः
d)
भगवान् श्रीकृष्णः
6.
रूपकालङ्कारः कस्मिन् शब्दे दृश्यते?
a)
निगमवन्दिनः
b)
मितम्पचाः
c)
श्रान्ताः
d)
यथावद्वर्णने
7.
कवयः वेदान्तदेशिकाः "यदेकैकगुणप्रान्ते" इति पद्यद्वारा किं प्रकटयन्ति ?
a)
स्वज्ञानम्
b)
स्वकौशलम्
c)
स्वशक्तिम्
d)
स्वविनयम्
8.
मन्दधियामपि यथाशक्ति कर्तुं किम् उचितं भवति ?
a)
भगवत्पूजनम्
b)
काव्याध्ययनम्
c)
शौरिकथास्वादः
d)
शौरिध्यानम्
9.
लभ्येत, गृह्येत इत्यत्र कः लकारः ?
a)
लङ् लकारः
b)
विधिलिङ् लकारः
c)
लृट् लकारः
d)
लोट् लकारः
10.
मन्दधियाम् - विग्रहवाक्यं किम्?
a)
मन्दा धीः येषां ते, तेषाम्
b)
मन्दा धीः, तासाम्
c)
मन्दानां धीः, तस्याः
d)
मन्दा धीः यैः ते, तेषाम्
11.
उपमान-उपमेयौ, तयोः साधारणधर्मौ च बिम्बप्रतिबिम्बरूपेण वाक्यद्वयेन निर्दिश्यते चेत् कः अलङ्कारः ?
a)
रूपकम्
b)
अतिशयोक्तिः
c)
दृष्टान्तः
d)
उपमा
12.
शौरिः - विग्रहवाक्यं किम् ?
a)
शूरस्य भावः
b)
शूरस्य अपत्यं पुमान्
c)
शूरः अस्य अस्तीति
d)
अतिशयेन शूरः
13.
स्थाने' इति अव्ययस्य कः अर्थः
a)
समीपम्
b)
अद्भुतम्
c)
अन्वयम्
d)
उचितम्