WorksheetsYadavabhyudaya Sarga 1-Verses 4,5,6(Vasudhashro,Sa kavi,Tadatve)
Total questions: 12
Worksheet time: 6mins
Name
Class
Date
1.
व्यासं, वाल्मीकिं च हृदि स्मरन्तः अन्ये कथं कवयः बभूवुः ?
a)
विनयशीलाः
b)
अनपत्रपाः
c)
विद्वांसः
d)
लेखकाः
2.
"वसुधाश्रोत्रजः" कं बोधयति ?
a)
कालिदासम्
b)
व्यासम्
c)
वाल्मीकिम्
d)
वेदान्तदेशिकम्
3.
बभूवुः' - कः लकारः?
a)
लिट्
b)
लङ्
c)
लुङ्
d)
लृट्
4.
हृदयस्थिते इति सप्तमी विभक्तिः कस्मिन् अर्थे प्रयुक्तः ?
a)
अधिकरण-सप्तमी
b)
सति-सप्तमी
c)
विषय-सप्तमी
5.
कैः अंशैः भारती रमते चेत् सः स्रष्टा, कविः च कथ्यते ?
a)
अलङ्कारैः
b)
वृत्तिभिः
c)
रसभावगुणीभूतैः
d)
छन्दोभिः
e)
गुणोदयैः
6.
रमते - रम् धातुः कीदृशः धातुः ?
a)
उभयपदी
b)
आत्मनेपदी
c)
परस्मैपदी
7.
ब्रह्मणः पर्यायपदानि कानि ?
a)
हरिः
b)
विधिः
c)
हव्यवाहनः
d)
स्रष्टा
8.
गुणोदयैः - विग्रहवाक्यम् किम् ?
a)
गुणैः उदयः, तैः
b)
गुणेषु उदयः, तैः
c)
गुणानाम् उदयः, तैः
d)
गुणाः एव उदयः, तैः
9.
सर्वं प्रबन्धरचनं कदा नूतनं भवति ?
a)
तदात्वे
b)
अद्यत्वे
c)
परत्वे
d)
सर्वदा
10.
आयतिः - अस्य कः अर्थः?
a)
आगमनम्
b)
उत्तरकालः
c)
विधिः
d)
भीतिः
11.
"न दोषायैतदुभयं न गुणाय च कल्पते" - एतत्समानार्थकं "पुराणमित्येव न साधु सर्वम्" इति वचनं कस्य कवेः ?
a)
भवभूतेः
b)
भारवेः
c)
भासस्य
d)
कालिदासस्य
12.
कल्पते - अस्य धातोः योगे का विभक्तिः भवति?
a)
द्वितीया
b)
तृतीया
c)
चतुर्थी
d)
पञ्चमी
100 %
