wayground logo

Free Printable Worksheets

Font size

S
M
L
XL
Worksheets

काव्य

Total questions: 10

Worksheet time: 5mins

Name
Class
Date
1.

उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः

दैवेन देयमिति कापुरुषा वदन्ति ।

दैवं निहत्य कुरु पौरुषमात्मशक्त्या

यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः ॥


लक्ष्मी कीदृशं पुरुषम् उपैति ?

a)

पुरुषम्

b)

उद्योगिनं

c)

सिंहम्

d)

अलसम्

2.

किं निहत्य पौरुषम् कुरु ?

a)

कार्यम्

b)

अवसरम्

c)

दैवम्

d)

दोषम्

3.

अनेकवारं किं कृत्वा अपि कार्यं न सिद्ध्यति ?

a)

प्रयत्नम्

b)

अनुचितम्

c)

प्रार्थनाम्

d)

उपहासम्

4.

आत्मशक्त्या किं कर्त्तव्यम् ?

a)

पुरुषम्

b)

पौरुषम्

c)

भजनम्

d)

वित्तार्जनम्

5.

’यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः‘ अस्य वाक्यस्य भाव: अस्ति-

a)

भाग्येन एव कार्यं सिद्ध्यति ।

b)

यत्ने कृते यदि न सिद्ध्यति तदा मनुष्यस्य दोषः न भवति ।

c)

यत्ने कृते यदि न सिद्ध्यति तदा पुन: पुन: प्रयासं करणीयम् ।

d)

प्रयत्नं न कर्त्तव्यम् ।

6.

अस्मिन् श्लोके ’दैवम्‘ इति शब्दस्य अर्थम् अस्ति -

a)

ईश्वरम्

b)

इन्द्रम्

c)

विष्णु:

d)

भाग्यम्

7.

‘कोऽत्र’ इति पदस्य विच्छेदम् अस्ति –

a)

को + ऽत्र

b)

क: + ऽत्र

c)

क: + अत्र

d)

को + अत्र

8.

वीरपुरुषा: इति पदस्य विपरीत पदं किम् ?

a)

पौरुषा:

b)

कापुरुषा:

c)

धीरपुरुषा:

d)

धनीपुरुषा:

9.

‘वदन्ति’ इति क्रियापदस्य कर्तृ पदम् अस्ति –

a)

देयम्

b)

दैवम्

c)

इति

d)

कापुरुषा:

10.

अत्र अस्य श्लोकस्य पाठन विधि: अस्ति –

a)

दण्डान्वय विधि:

b)

खण्डान्वय विधि:

c)

खण्डान्वय विधि: एवं दण्डान्वय विधि:

d)

भाषानुवाद विधि: एवं दण्डान्वय विधि: