Wayground logo

Free Printable Worksheets

Font size

S
M
L
XL
Worksheets

CLASS X LESSON 8

Total questions: 3

Worksheet time: 9mins

Name
Class
Date
1.

I. पठित-सामाग्रयाम् आधारितम् अवबोधनकार्यम् |

अधोलिखितान् नाट्याशान् श्लोकान् च पठित्वा प्रश्नानाम् उत्तराणि लिखत

वनस्य दृश्यम् समीपे एवैका नदी वहति। एकः सिंहः सुखेन विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छं धुनोति। क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूर्दित्वा वृक्षमारूढः। तदैव अन्यस्मात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति एवमेव वानराः वारं वारं सिंहं तुदन्ति। क्रुद्धः सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एव तिष्ठति। वानराः हसन्ति वृक्षोपरि च विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति।

प्रश्नाः I. एकपदेन उत्तरत

(i) एकः वानरः कस्य पुच्छ धुनोति?

(ii) के सिंह तुदन्ति?

II. पूर्णवाक्येन उत्तरत

विविधाः पक्षिणः किम् कुर्वन्ति?

III. निर्देशानुसारम् उचितम् उत्तरम् प्रदत्तविकल्पेभ्यो चित्वा लिखत

(i) ‘वहति’ इति क्रियापदस्य कर्तृपदं किम्?

(क) एका(ख) नदी(ग) वनस्य(घ) दृश्यम्

(ii) ‘सिंहः तम् प्रहर्तु…….।’ अस्मिन् वाक्ये ‘तम्’ सर्वनामपदं कस्मै प्रयुक्तम्?

(क) वानरः(ख) वानराय(ग) वृक्षाय(घ) सिंहाय

(iii) ‘वृक्षात्’ इति पदस्य विशेषणपदं किम्?

(क) अन्यस्मात्(ख) अपरः(ग) एका(घ) विविधाः

(iv) ‘खगाः’ इत्यर्थे किं पदं प्रयुक्तम्?

(क) क्रुद्धः(ख) पक्षिणः(ग) सिंहः(घ) एवैका

4 lines
2.

(ख) काकः – अरे! अरे! किं जल्पसि? यदि अहं कृष्णवर्णः तर्हि त्वं कि गौरागः? अपि च विस्मर्यते किं यत् मम सत्यप्रियता तु जनानां कृते उदाहरणस्वरूपा-‘अनृतं वदसि चेत् काकः दशेत्’-इति प्रकारेण। अस्माकं परिश्रमः ऐक्यं च विश्वप्रथितम्। अपि च काकचेष्टः विद्यार्थी एव आदर्शच्छात्रः मन्यते।

पिकः – अलम् अलम् अतिविकत्थनेन। किं विस्मयते यत् काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः। वसन्तसमये प्राप्ते काकः काकः पिकः पिकः॥प्रश्ना : I. एकपदेन उत्तरत

(i) केषाम् ऐक्यम् विश्वप्रथितम् अस्ति। (ii) काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?

II. पूर्णवाक्येन उत्तरत

पिककाकयोः भेदः कदा ज्ञायते?

III. निर्देशानुसारम् उचितम् उत्तरम् प्रदत्तविकल्पेभ्यो चित्वा लिखित

(i) ‘सत्यं’ इति पदस्य विपरीतार्थकं पदं किम्?

(क) अनृतं(ख) प्रथितम्(ग) ऐक्यं(घ) अलम्

(ii) ‘ऐक्यं’ इति पदस्य कः अर्थः?(क) काकः(ख) कृष्ण(ग) वर्णः(घ) एकता

(iii) ‘त्वं किं गौराङ्ग:?’ अस्मिन् वाक्ये ‘त्वं’ इति सर्वनामपदं कस्मै प्रयुक्तम्?

(क) काकाय(ख) काकः(ग) पिकाय(घ) पिकस्य

(iv) ‘दशेत्’ इति क्रियापदस्य कर्तृपदं किम्? ।

(क) काकः(ख) चेत्(ग) अनृतं(घ) पिकः

4 lines
3.

(ग) काकः – रे परभृत! अहं यदि तव संततिं न पालयामि तर्हि कुत्र स्युः पिका:? अतः अहम् एव करुणापरः पक्षिसम्राट् काकः। गजः – समीपतः एवागच्छन् अरे! अरे! सर्वं सम्भाषण शृण्वन्नेवाहम् अत्रागच्छम्। अहं विशालकायः, बलशाली, पराक्रमी च। सिंहः वा स्यात् अथवा अन्यः कोऽपि, वन्यपशून् तु तुदन्तं जन्तुमहं स्वशुण्डेन पोथयित्वा मारयिष्यामि। किमन्यः कोऽप्यस्ति एतादृशः पराक्रमी। अतः अहमेव योग्यः वनराजपदाय। वानरः – अरे! अरे! एवं वा (शीघ्रमेव गजस्यापि पुच्छं विधूय वृक्षोपरि आरोहति।)

 

प्रश्ना :I. एकपदेन उत्तरत

(i) काकः कस्य सन्ततिं पालयति?

(ii) कः पुच्छं विधूय वृक्षोपरि आरोहति?

II. पूर्णवाक्येन उत्तरतगजः किं करिष्यति?

III. निर्देशानुसारम् उचितम् उत्तर प्रदत्तविकल्पेभ्यः चित्वा लिखत

(i) ‘अगच्छम्’ इति क्रियापदस्य कर्तृपदं किम्?

(क) सर्वा(ख) वार्ता(ग) अहम्(घ) गजः

(ii) ‘अहम् एव करुणापरः……..।’ अस्मिन् वाक्ये अहम् सर्वनामपदं कस्मै प्रयुक्तम्?

(क) काकाय(ख) गजाय(ग) वानराय(घ) काकस्य

(iii) ‘आकर्ण्य’ इत्यर्थे किम् पदं प्रयुक्तम्?

(क) योग्यः(ख) परभृत्(ग) शुण्डेन(घ) विधूय

(iv) ‘तुदन्तं’ इति पदस्य विशेष्यपदं किम्?

(क) वन्यपशून्(ख) जन्तुम्(ग) जन्तुमहं

4 lines