NEW
Font size
S
M
L
XL
Worksheetsभर्तृहरिनीतिशतकम् (प्रथमा लघ्वी परीक्षा)
Total questions: 30
Worksheet time: 49mins
Name
Class
Date
1.
नीतिशतकस्य कर्ता कः?
a)
भर्तृहरिः
b)
भवभूतिः
c)
बाणभट्टः
d)
भागुरिः
2.
नीतिशतके ................. मङ्गलं वर्तते।
a)
वस्तुनिर्देशात्मकं
b)
आशीर्वादात्मकं
c)
नमस्कारात्मकं
d)
कायिकं
3.
समूहेतरं चिनुत--
a)
नीतिशतकम्
b)
न्यायशतकम्
c)
शृङ्गारशतकम्
d)
वैराग्यशतकम्
4.
मङ्गलपद्ये तेजसि कति विशेषणानि सन्ति?
a)
षट्
b)
पञ्च
c)
चत्वारि
d)
त्रीणि
5.
मङ्गलपद्ये तेजसे इत्यत्र कस्मात् चतुर्थीविभक्तिः?
a)
नमःशब्दयोगात्
b)
सम्प्रदानत्वात्
c)
हेतुत्वात्
d)
फलत्वात्
e)
मङ्गलत्वात्
6.
मत्सरग्रस्ताः इत्यस्य विग्रहवाक्यं लिखत।
a)
मत्सरे ग्रस्ताः
b)
मत्सरेण ग्रस्ताः
c)
मत्सरस्य ग्रस्ताः
d)
मत्सरः ग्रस्तः यैः ते
7.
बोद्धारो मत्सरग्रस्ताः प्रभवः ............... ।
a)
विस्मयदूषिताः
b)
स्मयदूषिताः
c)
स्मितभूषिताः
d)
स्मयभूषिताः
8.
सुभाषितं कुत्र जीर्णम् इति भर्तृहरिः कथयति?
a)
ग्रन्थे
b)
शरीरे
c)
अङ्गे
d)
सङ्गे
9.
असमीचीनं कथनं चिनुत-
a)
अज्ञः सुखमाराध्यः।
b)
सुखतरमाराध्यते विशेषज्ञः ।
c)
ज्ञानलवदुर्विदग्धं ब्रह्मा हि तं नरं रञ्जयति।
d)
ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति।
10.
असमीचीनं कथनं चिनुत-
a)
प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्रान्तरात्
b)
समुद्रमपि सन्तरेत्प्रचलदूर्मिमालाकुलम्
c)
भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारयेत्
d)
प्रतिनिविष्टमूर्खजनचित्तं सुष्ठु आराधयेत्
11.
उद्धरेत्, सन्तरेत्, धारयेत्, आराधयेत् इत्येतेषु कः लकारः?
a)
आशीर्लिङ्
b)
विधिलिङ्
c)
लुङ्
d)
लोट्
12.
कदाचिदपि पर्यटन् ........... आसादयेत्।
a)
गगनकुसुमम्
b)
सिकतातैलम्
c)
शशविषाणम्
d)
भूनक्षत्रम्
13.
नेतुं वाञ्छति यः खलान् सतां पथि सः व्यालं कैः रोद्धुं समुज्जृम्भते।
a)
दृढतररज्जुभिः
b)
अयोमयशृङ्खलाभिः
c)
बालमृणालतन्तुभिः
d)
नारिलिकेलसूत्रैः
14.
विशेषतः सर्वविदां समाजे विभूषणं मौनम् ................. ।
a)
अपण्डितानाम्
b)
पण्डितानाम्
c)
वाग्विदाम्
d)
आभरणम्
15.
रोद्धुम् इत्यत्र कः प्रत्ययः?
a)
क्त-प्रत्ययः
b)
तुमुन्-प्रत्ययः
c)
क्तवतु-प्रत्ययः
d)
क्त्वा-प्रत्ययः
16.
नेतुं वाञ्छति यः खलान्पथि सतां सूक्तैः .................।
a)
क्षीरबिन्दुभिः
b)
अमृतप्रायैः
c)
सुधास्यन्दिभिः
d)
पाशाङ्कुशसन्निभैः
17.
विधात्रा अज्ञतायाः छादनं किं विनिर्मितम्?
a)
वस्त्रम्
b)
यन्त्रम्
c)
मन्त्रम्
d)
मौनम्
18.
सर्वज्ञोऽस्मीत्यभवदवलिप्तम् इत्यत्र विद्यमानाः सन्धयः के?
a)
विसर्गसन्धिः पूर्वरूपसन्धिः गुणसन्धिः वृद्धिसन्धिः जश्त्वसन्धिः
b)
विसर्गसन्धिः पूर्वरूपसन्धिः सवर्णदीर्घसन्धिः यण्सन्धिः जश्त्वसन्धिः
c)
पूर्वरूपसन्धिः सवर्णदीर्घसन्धिः विसर्गसन्धिः गुणसन्धिः जश्त्वसन्धिः
d)
विसर्गसन्धिः पररूपसन्धिः सवर्णदीर्घसन्धिः यण्सन्धिः श्चुत्वसन्धिः
19.
सुरपतिः- देवेन्द्रः; नरास्थि- ...........
a)
नरः अस्ति
b)
रक्तनाडी
c)
नरनाडी
d)
मनुष्यकीकसम्
20.
मदान्धः इत्यत्र कः समासः?
a)
षष्ठीतत्पुरुषसमासः
b)
पञ्चमीतत्पुरुषसमासः
c)
तृतीयातत्पुरुषसमासः
d)
बहुव्रीहिसमासः
21.
समूहेतरं पदं चिनुत-
a)
ईशज्ञः
b)
ईषज्ज्ञः
c)
अल्पज्ञः
d)
किञ्चिज्ज्ञः
22.
विगन्धि इत्यस्य पदपरिचयं लिखत।
a)
इकारान्त-पुंल्लिङ्ग-प्रथमाविभक्ति-एकवचनम्
b)
इकारान्त-नपुंसकलिङ्ग-प्रथमाविभक्ति-एकवचनम्
c)
धकारान्त-नपुंसकलिङ्ग-सप्तमीविभक्ति-एकवचनम्
d)
इकारान्त-स्त्रीलिङ्ग-संबोधनप्रथमाविभक्ति-एकवचनम्
23.
गङ्गा पशुपतिशिरस्तः कुत्र उपगता?
a)
गङ्गाधरम्
b)
शशिधरम्
c)
गिरिधरम्
d)
क्षितिधरम्
24.
मे मदः ............. इव व्यपगतः।
a)
वरः
b)
स्वरः
c)
ज्वरः
d)
ज्वरस्य
25.
कस्य औषधं नास्ति?
a)
मूर्खस्य
b)
रोगस्य
c)
शयनस्य
d)
समदस्य गजस्य
26.
विवेकभ्रष्टानां कीदृशः विनिपातः भवति?
a)
शतमुखः
b)
एकमुखः
c)
ऊर्ध्वमुखः
d)
दुर्मुखः
27.
गङ्गेयम् इति सन्धिविच्छेदः एवम्-
a)
गङ्ग+इयम्
b)
गङ्गा+इयम्
c)
गङ्गा+एवम्
d)
गङ्गा+एय्+अम्
28.
शर्वस्य इदम् ...........।
a)
शार्वरम्
b)
शर्वि
c)
शार्वम्
d)
शर्वाणी
29.
जलेन वारयितुं शक्यः कः?
a)
शुनकशावकः
b)
बलिभुक्
c)
हितभुक्
d)
हुतभुक्
30.
शक्यः इत्यत्र कः प्रत्ययः?
a)
ल्यप्-प्रत्ययः
b)
ण्यत्-प्रत्ययः
c)
क्यच्-प्रत्ययः
d)
इतच्-प्रत्ययः
Reset
