NEW
Font size
S
M
L
XL
Worksheetsन्यायदर्शने रसप्रश्नः VSP (विविधशास्त्रप्रमेयपरिचयः)
Total questions: 25
Worksheet time: 19mins
Name
Class
Date
1.
न्यायदर्शनस्य प्रणेता कः ?
a)
मुनिः कणादः
b)
भगवान् गौतमः
c)
मुनिः कपिलः
d)
भगवान् बादरायणः
2.
न्यायशास्त्रे मुनिना वात्स्यायनेन किं प्रणीतम् ?
a)
भाष्यम्
b)
वार्तिकम्
c)
सूत्रम्
d)
तात्पर्यटीका
3.
न्यायशास्त्रे कति पदार्थाः प्रोक्ताः?
a)
सप्त
b)
द्वादश
c)
त्रयोदश
d)
षोडश
4.
न्यायदर्शनानुसारं मुक्तिकारणं किम् ?
a)
अविद्यानाशः
b)
ब्रह्मज्ञानम्
c)
पदार्थतत्त्वज्ञानम्
d)
तपः
5.
केषां समुदाय एव न्याय इत्युच्यते ?
a)
आत्मादिपञ्चप्रमेयाणाम्
b)
चक्षुरादिपञ्चेन्द्रियाणाम्
c)
प्रतिज्ञादिपञ्चवाक्यानाम्
d)
संयोगादिपञ्चसन्निकर्षाणाम्
6.
के पञ्चावयवाः ?
a)
पृथिवीजलतेजोवाय्वाकाशानि
b)
प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि
c)
वाक्-पाणि-पाद-पायु-उपस्थाख्यानि
d)
चक्षुस्-त्वक्-घ्राण-रसन-श्रोत्र-मनांसि
7.
संसारबन्धने कारणीभूतं प्रधानं मिथ्याज्ञानं किम् ?
a)
घटे घटत्वज्ञानम्
b)
घटे पटत्वज्ञानम्
c)
शुक्तौ रजतत्वभ्रमः
d)
शरीरे आत्मत्वभ्रमः
8.
न्यायः कस्य निवारकः?
a)
संशयस्य
b)
निश्चयस्य
c)
अनुमानस्य
d)
विशेषस्य
9.
प्रमेयम् इत्यस्य कः अर्थः ?
a)
प्रमाश्रयः
b)
प्रमाकरणम्
c)
प्रमाविषयः
d)
भ्रमविषयः
10.
प्रमेयं कतिविधम् ?
a)
एकादश
b)
द्वादश
c)
त्रयोदश
d)
नव
11.
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाभिध-विशेषगुणोपेतः कः?
a)
परमात्मा
b)
मनः
c)
शरीरम्
d)
जीवात्मा
12.
जरायुजं पार्थिवं शरीरं केषाम्?
a)
पक्षिणाम्
b)
वृक्षाणाम्
c)
कृमिदंशादीनाम्
d)
मनुष्यादीनाम्
13.
भोगो नाम कः?
a)
घटपटान्यतरप्रत्यक्षम्
b)
शरीरेन्द्रियान्यतरत्
c)
सुखदुःखान्यतरप्रत्यक्षम्
d)
सुखदुःखान्यतरानुमानम्
14.
बहिरिन्दियाणि कति?
a)
षट्
b)
पञ्च
c)
त्रीणि
d)
चत्वारि
15.
मनः कयोः सेतुभूतम्?
a)
आत्मेन्द्रिययोः
b)
शरीरात्मनोः
c)
रागद्वेषयोः
d)
आत्ममनसोः
16.
न्यायदर्शनोक्ताः दोषाः के ?
a)
लिङ्गविभक्तिवचनानि
b)
प्रथममध्यमोत्तमाः
c)
शरीरेन्द्रियमनांसि
d)
रागद्वेषमोहाः
17.
प्रेत्यभावो नाम कः ?
a)
पुनर्ज्ञानम्
b)
पुनर्मननम्
c)
पुनर्जन्म
d)
प्रेतजन्म
18.
प्रतिकूलतया वेदनीयं किम् ?
a)
सुखम्
b)
दुःखम्
c)
धर्मः
d)
अधर्मः
19.
दुःखं कतिविधम् ?
a)
त्रिविधम्
b)
पञ्चविधम्
c)
नवविधम्
d)
द्विविधम्
20.
अपवर्गो नाम कः ?
a)
संसारः
b)
भोगः
c)
योगः
d)
मोक्षः
21.
पार्थिवम् इन्द्रियं किम्?
a)
चक्षुः
b)
रसनम्
c)
घ्राणम्
d)
त्वक्
22.
भगवता प्रथमसूत्रेण न्यायशास्त्रस्य परमप्रयोजनं किं दर्शितम् ?
a)
धर्मः
b)
अर्थः
c)
कामः
d)
निःश्रेयसम्
23.
चक्षुः त्वक् घ्राणं रसनं श्रोत्रं मनः एतेषु किं पृथक् गण्यते?
a)
चक्षुः
b)
मनः
c)
घ्राणम्
d)
रसनम्
24.
फलं नाम किम्?
a)
क्रियापर्यवसानभूमिः
b)
व्यवसायभूमिः
c)
आम्र-सेव-दाडिमादिकम्
d)
पक्वमधुरम्
25.
सविकल्पकं ज्ञानं कतिविधम्?
a)
त्रिविधम्
b)
पञ्चविधम्
c)
नवविधम्
d)
द्विविधम्
Reset
